मंत्र पुष्पांजली

ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्|

ते हं नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा:

ॐ राजाधिराजाय प्रसह्ये साहिने |नमो वयं वैश्रवणाय कुर्महे |

स मे कामान्कामकामाय मह्यम्| कामेश्वरो वैश्रवणो ददातु|

कुबेराय वैश्रवणाय | महाराजाय नम:ॐ स्वस्ति साम्राज्यं

भौज्यं स्वाराज्यं वैराज्यंपारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं

समंतपर्यायीसार्वायुषआंतादापरार्धात्पृथिव्यै 

समुद्रपर्यंता या एकराळिति

तदप्येष:श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन्गृहे|

आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति।

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्‍वम्।।१।।

दुर्गेस्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता  ।।२।।

सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके

शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तुते।।३।।'

शरणागतदीनार्तंपरित्राणपरायणे। 

सर्वस्यार्तिहरे देवि, नारायणि नमोघ्स्तु ते।।४।।

जयन्ती मंगला काली, भद्रकाली कपालिनी। 

दुर्गा क्षमा घिवा धात्री स्वाहा स्वधा नमोघ्स्तु ते।।

  सर्वस्वरूपे सर्वेघे सर्वघक्ति समन्विते।।।५।।

भयेभ्यस्त्राहि नो देवि ! दुर्गे देवि नमोघ्स्तु ते

सर्वाबाधा-विनिर्मुक्तो, धनधान्यसुतान्वितः। 

मनुष्यो मत्प्रसादेन् भविष्यति न संशयः।।६।।

महालक्ष्मीच विघ्यहे ।

विष्णुपत्नीच धिमही । 

तन्नो लक्ष्मी प्रचोदयात ।

Daily Program
  • 05:00 AM Abhishek And Shrugar Aarti
  • 05:00 AM Abhishek And Shrugar Aarti
  • 05:00 AM Abhishek And Shrugar Aarti
  • 05:00 AM Abhishek And Shrugar Aarti
  • 09:00 AM Chandi yaag
  • 12:00 PM Bhog Aarti